|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.22. अध्यायः 022
Mahabharata - Vana Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति स्वेन साल्वसंहारकथनपूर्वकं सुभद्राभिमन्युमभ्यां सह द्वारकागमनम् ॥ 1 ॥ धृष्टद्युम्नधृष्टकेतुभ्यां यथाक्रमं द्रौपदेयान्नकुलभार्यां स्वस्वनगरगमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वासुदेव उवाच। 3-22-0x(1839)(16501)
ततोऽहं भरतश्रेष्ठ प्रगृह्यरुचिरं धनुः।
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ॥ 3-22-1(16502)
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः।
प्रैषयं साल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥ 3-22-2(16503)
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह।
अन्तर्हितं माययाऽभूत्ततोऽहं विस्मितोऽभवम् ॥ 3-22-3(16504)
अथ दानवसङ्घास्ते विकृताननमूर्धजाः।
उदक्रोशन्महाराज धिष्ठिते मयि भारत ॥ 3-22-4(16505)
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे।
अयोजयं तद्वधाय ततः शब्द उपारमत् ॥ 3-22-5(16506)
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः।
शरैरादित्यसंकशैर्ज्वलितैः शब्दसाधनैः ॥ 3-22-6(16507)
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्।
शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः ॥ 3-22-7(16508)
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत।
नादयामासुरसुरास्ते चापि निहता मया ॥ 3-22-8(16509)
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत।
सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥ 3-22-9(16510)
ततो लोकान्तकरणो दानवो दारुणाकृतिः।
शिलावर्षेण महता सहसा मां समावृणोत् ॥ 3-22-10(16511)
सोहं पर्वतवर्षेण वध्यमानः समन्ततः।
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥ 3-22-11(16512)
ततोऽहं पर्वतचितः सहयः सहसारथिः।
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥ 3-22-12(16513)
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा।
ते भयर्ता दिशः सर्वे सहसा विप्रदुद्रुवुः ॥ 3-22-13(16514)
ततो हाहाकृतमभूत्सर्वं किल विशांपते।
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ॥ 3-22-14(16515)
ततो विषण्णमनसो मम राजन्सुहृज्जनाः।
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥ 3-22-15(16516)
द्विषतां च प्रहर्षोऽभूदार्तिश्च सुहृदामपि।
एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥ 3-22-16(16517)
ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम्।
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥ 3-22-17(16518)
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः।
हया मम महाराज वेपमाना इवाभवन् ॥ 3-22-18(16519)
मेघजाल इवाकाशे विदार्याभ्युदितं रविम्।
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥ 3-22-19(16520)
ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान्।
हयान्संदृश्य मां सूतः प्राह तात्कालिकं वचः ॥ 3-22-20(16521)
साधु संपश्य वार्ष्णेय साल्वं सौभपतिं स्थितम्।
अलं कृष्णावमन्यैनं साधु यत्नं समाचर ॥ 3-22-21(16522)
मार्दवं सखितां चैव साल्वादद्य व्यपाहर।
जहि साल्वं महाबाहो मैनं जीवय केशव ॥ 3-22-22(16523)
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्।
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा।
योपिस्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥ 3-22-23(16524)
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो।
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥ 3-22-24(16525)
जितवाञ्जामदग्न्यं यः कोटिवर्षगणान्बहून्।
स एष नान्यैर्वध्यो हि त्वामृते नास्ति कश्चन ॥ 3-22-25(16526)
नैष मार्दवसाध्यो वै मतो नापि सखा तव।
येन त्वं योधितो वीर द्वारका चावमर्दिता ॥ 3-22-26(16527)
एवमादि तु कौन्तेय श्रुत्वाऽहं सारथेर्वचः।
तत्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥ 3-22-27(16528)
वधाय साल्वराजस्य सौभस्य च निपातने।
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥ 3-22-28(16529)
ततोऽप्रतिहतं दिव्यमभोद्यमतिवीर्यवत्।
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्।
योजयं तत्रधनुषा दानवान्तकरं रणे ॥ 3-22-29(16530)
यक्षाणां राक्षसानां च दानवानां च संयुगे।
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥ 3-22-30(16531)
क्षुरान्तममलं चक्रं कालान्तकयमोपमम्।
अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम् ॥ 3-22-31(16532)
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम।
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥ 3-22-32(16533)
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा।
द्वितीयस्येव सूर्यस् युगान्ते प्रतपिष्यतः ॥ 3-22-33(16534)
तत्समासाद्य नगरं सौभं व्यपगतत्विषम्।
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥ 3-22-34(16535)
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्।
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ॥ 3-22-35(16536)
तस्मिन्निपतिते सौभे चक्रमागात्करं मम।
पुनश्चादाय वेगेन साल्वायेत्यहमब्रुवम् ॥ 3-22-36(16537)
ततः साल्वं गदां गुर्वीमाविध्यन्ते महाहवे।
द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥ 3-22-37(16538)
तस्मिन्विनिहते वीरे दानवास्त्रस्तचेतसः।
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥ 3-22-38(16539)
ततोऽहंसमवस्थाप्यरथं सौभसमीपतः।
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥ 3-22-39(16540)
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्।
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः ॥ 3-22-40(16541)
एवं निहत्य समरे सौभं साल्वं निपात्य च।
आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम् ॥ 3-22-41(16542)
तदेतत्कारणं राजन्नागमं नागसाह्वयम्।
यद्यागां परवीरघ्न न हि जीवेत्सुयोधनः ॥ 3-22-42(16543)
मय्यागतेऽथवा वीर द्यूतं न भविता तथा।
अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम् ॥ 3-22-43(16544)
वैशम्पायन उवाच। 3-22-44x(1840)
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः।
आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः ॥ 3-22-44(16545)
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम्।
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥ 3-22-45(16546)
परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः।
संमानितश्च धौम्येन द्रौपद्या चार्चितोश्रुभिः ॥ 3-22-46(16547)
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्।
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥ 3-22-47(16548)
शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा।
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ॥ 3-22-48(16549)
ततः प्रयते दाशार्हे धृष्टद्युम्नोपि पार्षतः।
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥ 3-22-49(16550)
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्।
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥ 3-22-50(16551)
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा।
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥ 3-22-51(16552)
ब्राह्मणाश्च विशश्चैव तथाविषयवासिनः।
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥ 3-22-52(16553)
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः।
आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥ 3-22-53(16554)
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः।
शशास पुरुषान्काले रथान्योजयतेति वै ॥ 3-22-54(16555)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-22-2 सुवाससः सुपुङ्खान् ॥ 3-22-4 विकृताननमूर्धजा इति तेषां स्वरूपकथनं नतु तद्दर्शनम्। धिष्ठिते प्रागल्भ्येन स्थिते। विष्ठिते इति पाठेपि सएवार्तः ॥ 3-22-5 शब्दएव साहो लक्ष्यं यत्रतत्तथा शब्दवेधि शब्देऽस्त्रमुपारमन्न्यपतदित्यर्थः शब्दसाहं शब्दबाधानिवारकं वा ॥ 3-22-6 शब्दसाधनैः शब्दएव साधनं लक्ष्यसंबन्धे कारणं येषां तैः। पुरस्यादृश्यत्वात् ॥ 3-22-9 आग्ज्येतिषं पूर्वसमुद्रतीरस्थं नगरविशेषम्। यतः कामगमं अतः प्राग्ज्योतिषं गत्वा व्यदृश्यत ॥ 3-22-12 अप्रख्यातिं अदर्शनम्। इयां प्राप्तवान् ॥ 3-22-16 एवं मां सौभराजो विजितवान् एतदप्यहं पश्चादश्रौषं पूर्वं मोहमापन्नः सन् संज्ञालार्भानन्तरं श्रुतवान्सारथिमुखेनेति शेषः। एवमज्ञातवान्वीरेति ट. पाठः ॥ 3-22-17 इन्द्रदयितं इन्द्रदैवत्यम्। वज्रं वज्रास्त्रम् समशातयं नाशितवान् ॥ 3-22-19 आहारयन्प्राप्तवन्तः ॥ 3-22-20 तात्कालिकं तत्कालयोग्यम् ॥ 3-22-23 पीठगः स्वासनस्थः। अयुध्यमानोपीत्यर्थः ॥ 3-22-30 प्रतिलोमानां विपरिताचाराणां म्लेच्छानाम् ॥ 3-22-31 क्षुरान्तं तीक्ष्णपरिधि ॥ 3-22-32 तस्मै सौभाय। प्राहिणवं प्रहितवान् ॥ 3-22-33 युगान्ते परिवेष्टत इति ट. पाठः ॥ 3-22-34 क्रकचः दन्तुरखङ्गः ॥ 3-22-43 उदकं धारयितुमिति शेषः ॥ 3-22-50 धृष्टकेतुः शिशुपालसुतः। स्वसारं करेणुमतीं नकुलभार्याम् ॥ 3-22-51 केकयाः सहदेवश्यालाः ॥ 3-22-54 शशास आज्ञापयामास ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|